+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter 10 – नीतिनवीनतम्

S.No.-QUESTIONS
ANSWERS
1-अभिवादनशीलस्य नित्यं वृद्वोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ।।1।।
सरलार्थ- ----------------------coming soon--------।
2-यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ।।2।।
सरलार्थ------------coming soon------।
3-तयोर्नित्यं प्रियं वुफर्यादाचार्यस्य च सर्वदा।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ।।3।।
सरलार्थ---------coming soon---------।
4-सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्।
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ।।4।।
सरलार्थ----------coming soon----------।
5-यत्कर्म वुफर्वतोअस्य स्यात्परितोषोअन्तरात्मनः।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ।।5।।
सरलार्थ----------coming soon----------।
6-दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्।
सत्यपूतां वदेद्वाचं मनः पूतं समाचरेत् ।।6।।
सरलार्थ----------coming soon----------।
Page No-72: Q.1: अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत––
(क) नृणां संभवे कौ क्लेशं सहेते?
(क) मातापितरौ

(ख) कीदृशं जलं पिबेत्? (ख) वस्त्रपूतम्

(ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित? (ग) मनुस्मृतेः

(घ) कीदृशीं वाचं वदेत्? (घ) सत्यपूताम्

(ङ) उद्यानम् कै: निनादैः रम्यम्? (ङ) उद्यानम् कै: निनादैः रम्यम्

(च) दुःखं किं भवति?
(च) परवशम्

(छ) आत्मवशं किं भवति?
(छ) सुखम्

(ज) कीदृशं कर्म समाचरेत्?
(ज) येन अन्तरात्मनः परितोषः भवेत्

Page No 72: Q.2: अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत––
(क) पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
(क) सर्वं परवशं भवति दुःखम्, आत्मवशं च भवति सुखम्।

(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
(ख) नृणां सम्भवे मातापितरौ यं क्लेशं सहेते न तस्य वर्षशतैः निष्कृतिः शक्या।

(ग) "त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
(ग) "त्रिषु तुष्टेषु तपः समाप्यते" - वाक्येऽस्मिन् त्रयः भवन्ति माता, पिता, आचार्यश्चेति।

(घ) अस्माभिः कीदृशं कर्म कर्तव्यम्? (घ) अस्माभिः तादृशमेव कर्म करणीयं येन अस्माकम् अन्तरात्मनः परितोषः स्यात्।
(ङ) भज गोविन्दम्।
(च) सततं ध्येयस्मरणं कुरु
Page No 72: Q.3: स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
(क) वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
(क) कस्य आयुर्विद्या यशो बलं न बर्धन्ते?

(ख) मनुष्यः सत्यपूतां वाचं वदेत्।
(ख) मनुष्यः कीदृशीं वाचं वदेत्?

(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते?
(ग) त्रिषु तुष्टेषु किं समाप्यते?

(घ) मातापितरौ नृणां सम्भवे भाषया क्लेशं सहेते।
(घ) कौ नृणां सम्भवे भाषया क्लेशं सहेते?

(ङ) तयोः नित्यं प्रियं कुर्यात्।
(ङ) तयोः नित्यं किं कुर्यात्?

Page No 72: Q.4: संस्कृतभाषयां वाक्यप्रयोगं कुरुत-
(क) विद्या
(क)विद्याविहीनः पशुभिः समानः।

(ख) तपः
(ख) ग्रामं निकषा तपश्चरति तापसः।

(ग) समाचरेत्
(ग) नित्यं गुरुसेवां समाचरेत्।

(घ) परितोष:
(घ) सन्ततेः सार्थकतायां पित्रोः सन्तोषः सञ्जायते।

(ङ) नित्यम्
(ङ) पठामि संस्कृतं नित्यम्।

Page No 72: Q.5: शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षं च नैव इति लिखत–
(क) अभिवादनशीलस्य किमपि न वर्धते।
(क) न

(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते।
(ख) आम्

(ग) आत्मवशं तु सर्वमेव दुःखमस्ति।
(ग) न

(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
(घ) आम्

(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्।
(ङ) आम्

(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
(च) आम्

Page No 72: Q.6: समुचितपदेन रिक्तस्थानानि पूरयत–
(क) मातापित्रे: तपसः निष्कृतिः ................ कर्तुमशक्या। (दशवर्षैरपि/षष्टिः वर्षैरपि/वर्षशतैरपि)।
(क) वर्षशतैरपि

(ख) नित्यं वृद्धोपसेविनः ................ वर्धन्ते (चत्वारि/पञ्च/षट्)।
(ख) चत्वारि

(ग) त्रिषु तुष्टेषु ................ सर्वं समाप्यते (जपः/तप/कर्म)।
(ग) तपः

(घ) एतत् विद्यात् ................ लक्षणं सुखदुःपयोः। (शरीरेण!समासेन/विस्तारेण)
(घ) समासेन

(ङ) दृष्टिपूतम् न्यसेत् ................। (हस्तम्/पादम्/मुखम्)
(ङ) पादम्

(च) मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ........... कुर्यात्। (प्रियम्/अप्रियम्/अकार्यम्)
(च) प्रियम्

Page No 72: Q.7: मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुत–
तावत्, अपि ,एव ,यथा, नित्यं ,यादृशम्
(क) तयोः ............ प्रियं कुर्यात्।
(क) नित्यम्

(ख) ............ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
(ख) यादृशम्

(ग) वर्षशतैः ............ निष्कृतिः न कर्तुं शक्या।
(ग) अपि

(घ) तेषु ............ त्रिषु तुष्टेषु तपः समाप्यते।
(घ) एव

(ङ) ............ राजा तथा प्रजा
(ङ) यथा

(च) यावत् सफलः न भवति ............ परिश्रमं कुरु।
(च) तावत्