+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter 12 – क: रक्षति क: रक्षित:

S.No.-QUESTIONS
ANSWERS
ग्रीष्मर्तौ सायंकाले विद्युदभावे प्रचण्डोष्मणा पीडितः वैभवः गृहात् निष्क्रामति वैभवः - अरे परमिन्दर्! अपि त्वमपि विद्युदभावेन पीडितः बहिरागतः? परमिन्दर् - आम् मित्र! एकतः प्रचण्डातपकालः अन्यतश्च विद्युदभावः परं बहिरागत्यापि पश्यामि यत् वायुवेगः तु सर्वथाअवरूद्वः। सत्यमेवोक्तम्
प्राणिति पवनेन जगत् सकलं, सृष्टिर्निखिला चैतन्यमयी।
क्षणमपि न जीव्यते{नेन विना, सर्वातिशायिमूल्यः पवनः।।
सरलार्थ- -----coming soon-------।
विनयः - अरे मित्र! शरीरात् न केवलं स्वेदबिन्दवः अपितु स्वेदधाराः इव प्रस्त्रवन्ति स्मृतिपथमायाति शुक्लमहोदयैः रचितः श्लोकः।
तप्तैर्वाताघातैरवितुं लोकान् नभसि मेघाः,
आरक्षिविभागजना इव समये नैव दृश्यन्ते।।
सरलार्थ-----------coming soon---------।
परमिन्दर् - आम् अद्य तु वस्तुतः एव-
निदाघतापतप्तस्य, याति तालु हि शुष्कताम्।
पुंसो भयार्दितस्येव, स्वेदवज्जायते वपुः।।
सरलार्थ------coming soon--------।
जोसेफः - मित्राणि! यत्र-तत्र बहुभूमिकभवनानां, भूमिगतमार्गाणाम्, विशेषतः मैटंोमार्गाणां, उपरिगमिसेतूनाम् मार्गेत्यादीनां निर्माणाय वृक्षाः कत्र्यन्ते तर्हि अन्यत् किमपेक्ष्यते अस्माभिः? वयं तु विस्मृतपन्तः एव-
एकेन शुष्कवृक्षेण द्ह्यमानेन वह्निना।
दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा।।
सरलार्थ--------coming soon ------------------।
परमिन्दर् - आम् एतदपि सर्वथा सत्यम्! आगच्छन्तु नदीतीरं गच्छामः! तत्र चेत् कान्चित् शान्तिं प्राप्तुं शक्ष्येम नदीतीरं गन्तुकामाः बालाः यत्र-तत्र अवकरभाण्डारं दृष्ट्वा वार्तालापं कुर्वन्तिद्ध जोसेपफः - पश्यन्तु मित्राणि यत्र-तत्र प्लास्टिकस्यूतानि अन्यत् चावकरं प्रक्षिप्तमस्ति। कथ्यते यत् स्वच्छता स्वास्थ्यकरी परं वयं तु शिक्षिताः अपि अशिक्षित इवाचरामः अनेन प्रकारेण.... वैभवः - गृहाणि तु अस्माभिः नित्यं स्वच्छानि क्रियन्ते परं किमर्थं स्वपर्यावरणस्य स्वच्छतां प्रति ध्यानं न दीयते विनयः - पश्य-पश्य उपरितः इदानीमपि अवकरः मार्गे क्षिप्यते।
सरलार्थ--------coming soon ------------------।
आहूय महोदये! कृपा कुरूं मार्गे भ्रमद्भ्यः। एतत् तु सर्वथा अशोभनं कृत्यम्। अस्मद्सदृशेभ्यः बालेभ्यः भवतीसदृशैः एवं संस्कारा देयाः। रोजलिन् - आम् पुत्र! सर्वथा सत्यं वदसि! क्षम्यन्ताम्। इदानीमेवागच्छामि। रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरम् मार्गे विकीर्णमन्यदवकरं चापि संगृह्य अवकरकण्डोले पातयति
सरलार्थ--------coming soon ------------------।
बालाः - एवमेव जागरूकतया एव प्रधानमंत्रिमहोदयानां स्वच्छताअभियानमपि गतिं प्राप्स्यति। विनयः - पश्य पश्य तत्र धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति। यथाकथन्चित् निवारणीया एषा मार्गे कदलीपफलविक्रेतारं दृष्ट्वा बालाः कदलीफलानि क्रीत्वा धेनुमाह्वयन्ति भोजयन्ति च, मार्गात् प्लास्टिकस्यूतानि चापसार्य पिहिते अवकरकण्डोले क्षिपन्ति
सरलार्थ--------coming soon ------------------।
परमिन्दर् - प्लास्टिकस्य मृत्तिकायां लयाभवात् अस्माकं पर्यावरणस्य कृते महती क्षतिः भवति। पूर्वं तु कार्पासेन, चर्मणा, लौहेन, लाक्षया, मृत्तिकया, काष्ठेन वा निर्मितानि वस्तूनि एव प्राप्यन्ते स्म। अधुना तत्स्थाने प्लास्टिकनिर्मितानि वस्तूनि एव प्राप्यन्ते वैभवः - आम् घटिपट्टिका, अन्यानि बहुविधानि पात्राणि, कलमेत्यादीनि सर्वाणि तु प्लास्टिकनिर्मितानि भवन्ति। जोसेफः - आम् अस्माभिः पित्रोः शिक्षकाणां सहयोगेन प्लास्टिकस्य विविधपक्षाः विचारणीयाः। पर्यावरणेन सह पशवः अपि रक्षणीयाः। एवमेवालपन्तः सर्वे नदीतीरं प्राप्ताः, नदीजले निमज्जिताः भवन्ति गायन्ति च- सुपर्यावरणेनास्ति जगतः सुस्थितिः सखे। जगति जायमानानां सम्भवः सम्भवो भुवि।। सर्वे - अतीवानन्दप्रदोअयं जलविहारः।
सरलार्थ--------coming soon ------------------।
Page No-89: Q.1: प्रश्नानामुत्तराणि एकपदेन लिखत–
(क) केन पीडितः वैभवः बहिरागतः?
(क) विद्युदभावेन

(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
(ख) वृक्षाः

(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?
(ग) अवकरभाण्डारम्

(घ) वयं शिक्षिताः अपि कथमाचरामः?
(घ) अशिक्षिता इव

(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
(ङ) पर्यावरणस्य

(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?
(च) तालु
Page No 90: Q.2: पूर्णवाक्येन उत्तराणि लिखत–
(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
(क) परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः तु सर्वथा अवरुद्धः।

(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
(ख) अस्माभिः बहुभूकिमभवनानां भूमिगतमार्गाणां मेट्रोमार्गाणाम् उपरिगमिसेतूनां च निर्माणाय वृक्षाः कर्त्यन्ते।

(ग) विनयः संगीतामाहूय किं वदति?
(ग) विनयः संगीतामाहूय वदति यत्

(घ) रोजलिन् आगत्य किं करोति?
(घ) रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरं मार्गे विकीर्णमन्यदवकरं चापि संगृह्य अवकरमण्डले पातयति।

(ङ) अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?
(ङ) अन्ते जोसेफः पर्यावरणरक्षायै कथयति यत् तेषां पितॄणां शिक्षकाणां च सहयोगेन प्लास्टिकस्य विविधपक्षाः विचारणीयाः । तथा च पर्यावरेण साकं पशवः अपि रक्षणीयाः।

Page No 90: Q.3: रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।?
(क) केन प्रकारेण एव स्वच्छताभियानमपि गतिं प्राप्स्यति?

(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म?
(ख) धेनुः केन सह प्लास्टिकस्यूतमपि खादति स्म।

(ग) वायुवेगः सर्वथाऽवरुद्ध: आसीत्?
(ग) किं सर्वथावरुद्धः आसीत्?

(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति?
(घ) सर्वे अवकरं संगृह्य कुत्र पातयन्ति?

(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते?
(ङ) अधुना प्लास्टिकनिर्मितानि किं प्रायः प्राप्यन्ते?

(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति?
(च) सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति?

Page No 90: Q.4: सन्धिविच्छेदं पूरयत–
(क) ग्रीष्मर्तौ – ......................... + ऋृतौ
(क) ग्रीष्मर्तौ = ग्रीष्म + ऋतौ

(ख) बहिरागत्य – बहिः + .........................
(ख) बहिरागत्य = बहिः + आगत्य

(ग) काञ्चित् – ......................... + चित्
(ग) काञ्चित् = काम् + चित्

(घ) तद्वनम् – ......................... + वनम्
(घ) तद्वनम् = तत् + वनम् / तद् + वनम्

(ङ) कलमेत्यादीनि – ......................... + आनन्दप्रदः + ......................
(ङ) कलमेत्यादीनि - कलम + इति + आदीनि

(च) अतीवानन्दप्रदोऽयम् – .........................
(च) अतीवानन्दप्रदोऽयम् - अतीव + आनन्दप्रदः + अयम्
Page No 91: Q.5: विशेषणपदैः सह विशेष्यपदानि योजयत–
विशेषणपदैःविशेष्यपदानि
कान्चित्शान्तिम्
स्वच्छानिगृहाणि
पिहिते अवकरमण्डले
स्वच्छतास्वास्थ्यकरी
गच्छन्तिमित्राणि
अन्यत्अवकरम्
महतीक्षतिः
Page No 91:Q.6: शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां समक्षं च न इति लिखत–
(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
(क) न

(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।
(ख) आम्

(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।
(ग) आम्

(घ) वायुं विना क्षणमपि जीवितुं न शक्यते।
(घ) आम्

(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
(ङ) न

(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
(च) न

(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति।
(छ) आम्

(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।
(ज) आम्

Page No 91: Q.7: घटनाक्रमामनुसारं लिखत–
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्मरं विचारयन्ति।
(क) उपरितः अवकरं क्षेतुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनपि रक्षितुं बालाः कृतनिश्चयाः भवन्ति।