S.No.-QUESTIONS | ||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ANSWERS | ||||||||||||||||||||||||
शालिनी ग्रीष्मावकाशे पितृगृहम् आगच्छति। सर्वे
प्रसन्नमनसा तस्याः स्वागतं कुर्वन्ति परं तस्याः
भ्रातृजाया उदासीना इव दृश्यते शालिनी- भ्रातृजाय! चिन्तिता इव प्रतीयसे, सर्वं कुशलं खलु? माला - आम् शालिनि। कुशलिनी अहम्। त्वदर्थम् किं आनयानि, शीतलपेयं चायं वा? शालिनी- अधुना तु किमपि न वान्छामि। रात्रौ सर्वैः सह भोजनमेव करिष्यामि। भोजनकालेअपि मालायाः मनोदशा स्वस्था न प्रतीयते स्म, परं सा मुखेन किमपि नोक्तवती राकेशः- भगिनी शालिनि! दिष्ट्या त्वम् समागता। अद्य मम कार्यालये एका महत्वपूर्णा गोष्ठी सहसैव निश्चिता। अद्यैव मालायाः चिकित्सिकया सह मेलनस्य समयः निर्धरितः त्वम् मालया सह चिकित्सिकां प्रति गच्छ, तस्याः परमर्शानुसारं यद्विधेयम् तद् सम्पादय। शालिनी- किमभवत्? भ्रातृजायायाः स्वास्थ्यं समीचीनं नास्ति? अहम् तु ह्यः प्रभृति पश्यामि सा स्वस्था न प्रतिभाति इति प्रतीयते स्म। |
||||||||||||||||||||||||
सरलार्थ- -----------coming soon--------------। | ||||||||||||||||||||||||
राकेशः- चिन्तायाः विषयः नास्ति। त्वम् मालया सह गच्छ। मार्गे सा सर्वं ज्ञापयिष्यति।
माला शालिनी च चिकित्सिकां प्रति गच्छन्त्यौ वार्तां कुरूतः शालिनी- किमभवत्? भ्रातृजाये? का समस्याअस्ति? माला-शालिनि! अहम् मासत्रयस्य गर्भं स्वकुक्षौ धारयामि। तव भ्रातुः आग्रहः अस्ति यत् अहं लिंगपरीक्षणं कारयेयम् कुक्षौ कन्याअस्ति चेत् गर्भं पातयेयम्। अहम् अतीव उद्विग्नाअस्मि परं तव भ्राता वार्तामेव न शृणोति। शालिनी- भ्राता एवम् चिन्तयितुमपि कथं प्रभवति? शिशुः कन्याअस्ति चेत् वधार्हा? जघन्यं कृत्यमिदम्। त्वम् विरोधं न कृतवती? सः तव शरीरे स्थितस्य शिशोः वधार्थं चिन्तयति त्वम् तूष्णीम् तिष्ठसि? अधुनैव गृहं चल, नास्ति आवश्यकता लिंगपरीक्षणस्य। भ्राता यदा गृहम् आगमिष्यति अहम् वार्तां करिष्ये। संध्याकाले भ्राता आगच्छति हस्तपादादिवंफ प्रक्षाल्य वस्त्राणि च परिवत्र्य पूजागृहं गत्वा दीपं प्रज्वालपति भवानीस्तुतिं चापि करोति। तदनन्तरं चायपानार्थम् सर्वेअपि एकत्रिताः। राकेशः- माले! त्वम् चिकित्सिकां प्रति गतवती आसीः, किम् अकथयत् सा? माला मौनमेवाश्रयति। तदैव क्रीडन्ती त्रिवर्षीया पुत्री अम्बिका पितुः क्रोडे उपविशति तस्मात् चाकलेहं च याचते। राकेशः अम्बिकां लालयति, चाकलेहं प्रदाय ताम् क्रोडात् अवतारयति। पुनः मालां प्रति प्रश्नवाचिकां दृष्टिं क्षिपति। शालिनी एतत् सर्वं दृष्ट्वा उत्तरं ददाति शालिनी- भ्रातः! त्वम् किम् ज्ञातुमिच्छसि? तस्याः कुक्षि पुत्रः अस्ति पुत्री वा? किमर्थम्? षण्मासानन्तरं सर्वं स्पष्टं भविष्यति, समयात् पूर्वं किमर्थम् अयम् आयासः? राकेशः- भगिनि, त्वं तु जानासि एव अस्मावंफ गृहे अम्बिका पुत्राीरूपेण अस्त्येव अधुना एकस्य पुत्रस्य आवश्यकताअस्ति तर्हि....... |
||||||||||||||||||||||||
सरलार्थ-------------------coming soon------------------------। | ||||||||||||||||||||||||
शालिनी- तर्हि कुक्षि पुत्री अस्ति चेत् हन्तव्या? तीव्रस्वरेण हत्यायाः पापं कर्तुं
प्रवृत्तोअसि त्वम्। राकेशः- न, हत्या तु न......... शालिनी - तर्हि किमस्ति निर्घृणं कृत्यमिदम्? सर्वथा विस्मृतवान् अस्माकं जनकः कदापि पुत्रीपुत्रमयः विभेदं न कृतवान्? सः सर्वदैव मनुस्मृतेः पंक्तिमिमाम् उद्वरति स्म आत्मा वै जायते पुत्रः पुत्रेण दुहिता समा। त्वमपि सायं प्रातः देवीस्तुतिं करोषि? किमर्थं सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोषि? तव मनसि इयती कुत्सिता वृत्तिः आगता, इदम् चिन्तयित्वैव अहम् कुण्ठिताअस्मि। तव शिक्षा वृथा...... राकेशः- भगिनि! विरम विरम। अहम् स्वापराधं स्वीकरोमि लज्जितश्चास्मि। अद्यप्रभृति कदापि गर्हितमिदं कार्यम् स्वप्नेअपि न चिन्तयिष्यामि। यथैव अम्बिका मम हृदयस्य संपूर्ण स्नेहस्य अधिकारिणी अस्ति, तथैव आगन्ता शिशुः अपि स्नेहाधिकारी भविष्यति पुत्रः भवतु पुत्री वा। अहम् स्वगर्हितचिन्तनं प्रति पश्चात्तापमग्नः अस्मि, अहम् कथं विस्मृतवान् यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः। यत्रैताः न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः। अथवा पितुर्दशगुणा मातेति। त्वया सन्मार्गः प्रदर्शितः भगिनि। कनिष्ठाअपि त्वम् मम गुरूरसि। |
||||||||||||||||||||||||
सरलार्थ--------------------coming soon-----------------। | ||||||||||||||||||||||||
शालिनी- अलम् पश्चात्तापेन। तव मनसः अन्धकारः अपगतः प्रसन्नतायाः विषयोअयम्। भ्रातृजाये! आगच्छ। सर्वां चिन्तां त्यज आगन्तुः शिशोः स्वागताय च सन्नद्वा भव। भ्रातः त्वमपि प्रतिज्ञां कुरू - कन्यायाः रक्षणे, तस्याः पाठने दत्तचित्तः स्थास्यसि पुत्रीं रक्ष, पुत्रीं पाठय ̧ इतिसर्वकारस्य घोषणेयं तदैव सार्थिका भविष्यति यदा वयं सर्वे मिलित्वा चिन्तनमिदं यथार्थरूपं करिष्यामः- | ||||||||||||||||||||||||
सरलार्थ----------------coming soon-------------------------। | ||||||||||||||||||||||||
या गार्गी श्रुतचिन्तने नृपनये पाचालिका विक्रमे। लक्ष्मीः शत्राुविदारणे गगनं विज्ञानाघõणे कल्पना। इन्द्रोद्योगपथे च खेलजगति ख्याताभितः साइना सेयं स्त्राी सकलासु दिक्षु सबला सर्वैः सदोत्साह्यताम्। |
||||||||||||||||||||||||
सरलार्थ----------------coming soon-------------------------। | ||||||||||||||||||||||||
Page No 40: 1:अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत– | ||||||||||||||||||||||||
(क) प्रेमल: कथं श्रान्त: आसीत्? | ||||||||||||||||||||||||
(क) काष्ठच्छेदेन्। | ||||||||||||||||||||||||
(ख) प्रेमल: कदा गृहम् आगच्छत्? | ||||||||||||||||||||||||
(ख) सायं काले। | ||||||||||||||||||||||||
(ग) प्रेमल: कानि प्राज्वालयत्? | ||||||||||||||||||||||||
(ग) काष्ठानि | ||||||||||||||||||||||||
(घ) चुल्लीं प्रज्वालयितुं प्रेमल: किं कृतवान्? | ||||||||||||||||||||||||
(घ) फूत्कारम् | ||||||||||||||||||||||||
(ङ) प्रेमली कस्य पत्नी आसीत्? | ||||||||||||||||||||||||
(ङ) प्रेमलस्य। | ||||||||||||||||||||||||
Page No 40: 3:अधोलिखितेषु पदेषु उपसर्गं चित्वा पृथक् कुरुत- | ||||||||||||||||||||||||
यथा-अपगमिष्याति = अप + गमिष्यति
अवतारय = अव + अतारय् प्रज्ज्वाल्य = प्र + ज्ज्वालय प्रहार: = प्र + हार: पराजय: = परा + जय: उपहार: = उप + हार: |
||||||||||||||||||||||||
Page No 40: 4:(I) अधोलिखितेषु पदेषु उदाहरणानुसारेण धातुं प्रत्ययं च पृथक् कुरुत- | ||||||||||||||||||||||||
|
||||||||||||||||||||||||
Page No 40: 4:(II) अधोलिखितेषु पदेषु उदाहरणानुसारेण धातुं प्रत्ययं च पृथक् कुरुत- | ||||||||||||||||||||||||
|
||||||||||||||||||||||||
Page No 40: 4:(III) अधोलिखितेषु पदेषु उदाहरणानुसारेण उपसर्ग: धातुं प्रत्ययं च पृथक् कुरुत- | ||||||||||||||||||||||||
|
||||||||||||||||||||||||
Page No 41: 4:मञ्जूषात: समानार्थकपदानि चित्वा रिक्तस्थानानि पूरयत- | ||||||||||||||||||||||||
करेण = हस्तेन कुसुमम् = पुष्पम् यच्छसि = ददासि स्थापयित्वा = संस्थाप्य वदति = कथयति साम्प्रतम् = अधुना शरीरम् = तनु: पार्श्वे = निकटे |
||||||||||||||||||||||||
Page No 42: 5:निर्देशानुसारं उपसर्गं क्रियापदं च पृथक कुरुत- | ||||||||||||||||||||||||
यथा – प्राचलत्
=
प्र
+
अचलत् निरदिशत् = निर् + अदिशत् आगच्छत् = आ + अगच्छत् अवातारयत् = अव् + अतारयत् पराभवत् = परा + अभवत् प्राक्षालयत् = प्र + अक्षालयत् |
||||||||||||||||||||||||
Page No 42:6: अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत- एतानि उपयुक्त क्रम निम्न सन्ति- | ||||||||||||||||||||||||
(क) प्रेमल: गृहमागच्छत्। (ख) स: घटे जलमभरत्। (ग) स: चुल्लीमज्वालयत्। (घ) स: जलमुष्णमकरोत्। (ङ) स: हण्डीमवातारयत्। (च) स: हण्डीं स्नानगृहे अस्थापयत्। (छ) स: स्नानमकरोत्। (ज) स: भोजनमकरोत्। |
||||||||||||||||||||||||
Page No 42: 7:अधोलिखितानां तद्भवपदानां तत्समपदानि चिनुत- | ||||||||||||||||||||||||
|